Sarga 40: The Citizens Follow
पौराद्यनुव्रज्या
paurādyanuvrajyā — word-by-word gloss for all 51 shlokas.
Jump to a shloka · 51 in this sarga
पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ । दृष्ट्वा सञ्चोदयामास शीघ्रं याहीति सारथिम् ।।2.40.41।।
Meaning
न हि तत्पुरुषव्याघ्रो दुःखदं दर्शनं पितुः । मातुश्च सहितुं शक्तस्तोत्रार्दित इव द्विपः ।।2.40.42।।
Meaning
प्रत्यगारमिवायान्ती वत्सला वत्सकारणात् । बद्धवत्सा यथा धेनुः राममाताऽभ्याधावत ।।2.40.43।।
Meaning
तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम् । क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च ।।2.40.44।।
Meaning
रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम् । असकृत्प्रैक्षत स तां नृत्यन्तीमिव मातरम् ।।2.40.45।।
Meaning
तिष्ठेति राजा चुक्रोश याहि याहीति राघवः । सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा ।।2.40.46।।
Meaning
नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसि । चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत् ।।2.40.47।।
Meaning
रामस्य स वचः कुर्वन्ननुज्ञाप्य च तं जनम् । व्रजतोऽपि हयान् शीघ्रं चोदयामास सारथिः ।।2.40.48।।
Meaning
न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम् । मनसाप्यश्रुवेगैश्च न न्यवर्तत मानुषम् ।।2.40.49।।
Meaning
यमिच्छेत्पुनरायान्तं नैनं दूरमनुव्रजेत् । इत्यमात्या महाराजमूचुर्दशरथं वचः ।।2.40.50।।
Meaning