← Ayodhyā Kāṇḍa

Sarga 94: Citrakūṭa Described

चित्रकूटवर्णना

citrakūṭavarṇanā — word-by-word gloss for all 27 shlokas.

Jump to a shloka · 27 in this sarga

Page 2 of 327 shlokas in this sarga (verified max-across-sources)
Shloka 94.11Word-by-word available

शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान् । किन्नरान् द्वन्द्वशो भद्रे रममाणान्मनस्विनः ।।2.94.11।।

Meaning

Shloka 94.12Word-by-word available

शाखावसक्तान् खड्गांश्च प्रवराण्यम्बराणि च । पश्य विद्याधरस्त्रीणां क्रीडोद्धेशान् मनोरमान् ।।2.94.12।।

Meaning

Shloka 94.13Word-by-word available

जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित् क्वचित् । स्रवद्भिर्भात्ययं शैलः स्रवन्मद इव द्विपः ।।2.94.13।।

Meaning

Shloka 94.14Word-by-word available

गुहासमीरणो गन्धान् नानापुष्पभवान्वहन् । घ्राणतर्पणमभ्येत्य कं नरं न प्रहर्षयेत् ।।2.94.14।।

Meaning

Shloka 94.15Word-by-word available

यदीह शरदोऽनेकास्त्वया सार्धमनिन्दिते । लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति ।।2.94.15।।

Meaning

Shloka 94.16Word-by-word available

बहुपुष्पफले रम्ये नानाद्विजगणायुते । विचित्रशिखरे ह्यस्मिन् रतवानस्मि भामिनि ।।2.94.16।।

Meaning

Shloka 94.17Word-by-word available

अनेन वनवासेन मया प्राप्तं फलद्वयम् । पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ।।2.94.17।।

Meaning

Shloka 94.18Word-by-word available

वैदेहि रमसे कच्चिच्चित्रकूटे मया सह । पश्यन्ती विविधान्भावान् मनोवाक्कायसम्मतान् ।।2.94.18।।

Meaning

Shloka 94.19Word-by-word available

इदमेवामृतं प्राहुः राज्ञि राजर्षयः परे । वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः ।।2.94.19।।

Meaning

Shloka 94.20Word-by-word available

शिलाः शैलस्य शोभन्ते विशालाः शतशोऽभितः । बहुला बहुलैर्वर्णैर्नीलपीतसितारुणैः ।।2.94.20।।

Meaning