Sarga 94: Citrakūṭa Described
चित्रकूटवर्णना
citrakūṭavarṇanā — word-by-word gloss for all 27 shlokas.
Jump to a shloka · 27 in this sarga
निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव । ओषध्यः स्वप्रभालक्ष्या भ्राजमानाः सहस्रशः ।।2.94.21।।
Meaning
केचित् क्षयनिभा देशाः केचिदुद्यानसन्निभाः । केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ।।2.94.22।।
Meaning
भित्त्वेव वसुधां भाति चित्रकूटः समुत्थितः । चित्रकूटस्य कूटोऽसौ दृश्यते सर्वतः शुभः ।।2.94.23।।
Meaning
कुष्ठपुन्नागस्थगरभूर्जपत्रोत्तरच्छदान् । कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् ।।2.94.24।।
Meaning
मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः । कामिभिर्वनिते पश्य फलानि विविधानि च ।।2.94.25।।
Meaning
वस्वौकसारां नलिनीमत्येतीवोत्तरान् कुरून् । पर्वतश्चित्रकूटोऽसौ बहुमूलफलोदकः ।।2.94.26।।
Meaning
इमं तु कालं वनिते विजह्रिवान् त्वया च सीते सह लक्ष्मणेन च । रतिं प्रपत्स्ये कुलधर्मवर्धनीं सतां पथि स्वैर्नियमैः परैः स्थितः ।।2.94.27।।
Meaning