Sarga 30: Sītā's Request Granted
वनगमनाभ्युपपत्तिः
vanagamanābhyupapattiḥ — word-by-word gloss for all 47 shlokas.
Jump to a shloka · 47 in this sarga
न च मे भविता तत्र कश्चित्पथि परिश्रमः। पृष्ठतस्तव गच्छन्त्या विहारशयनेष्विव ।।2.30.11।।
Meaning
कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः। तूलाजिनसमस्पर्शा मार्गे मम सह त्वया ।।2.30.12।।
Meaning
महावातसमुद्धूतं यन्मामवकरिष्यति। रजो रमण तन्मन्ये परार्ध्यमिव चन्दनम् ।।2.30.13।।
Meaning
शाद्वलेषु यदा शिश्ये वनान्ते वनगोचर। कुथास्तरणतल्पेषु किं स्यात्सुखतरं ततः ।।2.30.14।।
Meaning
पत्रं मूलं फलं यत्त्वमल्पं वा यदि वा बहु। दास्यसि स्वयमाहृत्य तन्मेऽमृतरसोपमम् ।।2.30.15।।
Meaning
न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः। आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च ।।2.30.16।।
Meaning
न च तत्र गतः किञ्चिद्द्रष्टुमर्हसि विप्रियम्। मत्कृते न च ते शोको न भविष्यति दुर्भरा ।।2.30.17।।
Meaning
यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना। इति जानन्परां प्रीतिं गच्छ राम मया सह ।।2.30.18।।
Meaning
अथ मामेवमव्यग्रां वनं नैव नयिष्यसि। विषमद्यैव पास्यामि मा विशं द्विषतां वशम् ।।2.30.19।।
Meaning
पश्चादपि हि दुःखेन मम नैवास्ति जीवितम्। उज्झितायास्त्वया नाथ तदैव मरणं वरम् ।।2.30.20।।
Meaning