Sarga 30: Sītā's Request Granted
वनगमनाभ्युपपत्तिः
vanagamanābhyupapattiḥ — word-by-word gloss for all 47 shlokas.
Jump to a shloka · 47 in this sarga
इमं हि सहितुं शोकं मुहूर्तमपि नोत्सहे। किं पुनर्दश वर्षाणि त्रीणि चैकं च दुःखिता ।।2.30.21।।
Meaning
इति सा शोकसन्तप्ता विलप्य करुणं बहु। चुक्रोश पतिमायस्ता भृशमालिङ्ग्य सस्वरम् ।।2.30.22।।
Meaning
सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना। चिरसन्नियतं बाष्पं मुमोचाग्निमिवारणिः ।।2.30.23।।
Meaning
तस्याः स्फटिकसङ्काशं वारि सन्तापसम्भवम्। नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम् ।।2.30.24।।
Meaning
तच्चैवामलचन्द्राभं मुखमायतलोचनम्। पर्यशुष्यत बाष्पेण जलोद्धृतमिवाम्बुजम् ।।2.30.25।।
Meaning
तां परिष्वज्य बाहुभ्यां विसञ्ज्ञामिव दुःखिताम्। उवाच वचनं रामः परिविश्वासयंस्तदा ।।2.30.26।।
Meaning
न देवि तव दुःखेन स्वर्गमप्यभिरोचये। न हि मेऽस्ति भयं किञ्चित्स्वयम्भोरिव सर्वतः ।।2.30.27।।
Meaning
तव सर्वमभिप्रायमविज्ञाय शुभानने। वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे ।।2.30.28।।
Meaning
यत्सृष्टाऽसि मया सार्धं वनवासाय मैथिलि। न विहातुं मया शक्या कीर्तिरात्मवता यथा ।।2.30.29।।
Meaning
धर्मस्तु गजनासोरु सद्भिराचरितः पुरा। तं चाहमनुवर्तेऽद्य यथा सूर्यं सुवर्चला ।।2.30.30।।
Meaning