← Ayodhyā Kāṇḍa

Sarga 30: Sītā's Request Granted

वनगमनाभ्युपपत्तिः

vanagamanābhyupapattiḥ — word-by-word gloss for all 47 shlokas.

Page 4 of 547 shlokas in this sarga (verified max-across-sources)
Shloka 30.31Word-by-word available

न खल्वहं न गच्छेयं वनं जनकनन्दिनि। वचनं तन्नयति मां पितुः सत्योपबृंहितम् ।।2.30.31।।

Meaning

Shloka 30.32Word-by-word available

एष धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यता। आज्ञां चाहं व्यतिक्रम्य नाहं जीवितुमुत्सहे ।।2.30.32।।

Meaning

Shloka 30.33Word-by-word available

स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम्। अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते ।।2.30.33।।

Meaning

Shloka 30.34Word-by-word available

यत्त्रयं तत्त्रयो लोकाः पवित्रं तत्समं भुवि। नान्यदस्ति शुभापाङ्गे तेनेदमभिराध्यते ।।2.30.34।।

Meaning

Shloka 30.35Word-by-word available

न सत्यं दानमानौ वा न यज्ञाश्चाप्तदक्षिणाः। तथा बलकराः सिते यथा सेवा पितुर्हिता ।।2.30.35।।

Meaning

Shloka 30.36Word-by-word available

स्वर्गो धनं वा धान्यं वा विद्याः पुत्राः सुखानि च। गुरुवृत्त्यनुरोधेन न किञ्चिदपि दुर्लभम् ।।2.30.36।।

Meaning

Shloka 30.37Word-by-word available

देवगन्धर्वगोलोकान्ब्रह्मलोकांस्तथा नराः। प्राप्नुवन्ति महात्मानो मातापितृपरायणाः ।।2.30.37।।

Meaning

Shloka 30.38Word-by-word available

स मां पिता यथा शास्ति सत्यधर्मपथे स्थितः। तथा वर्तितुमिच्छामि स हि धर्मः सनातनः ।।2.30.38।।

Meaning

Shloka 30.39Word-by-word available

मम सन्ना मतिः सिते त्वां नेतुं दण्डकावनम्। वसिष्यामीति सा त्वं मामनुयातुं सुनिश्चिता ।।2.30.39।।

Meaning

Shloka 30.40Word-by-word available

सा हि सृष्टाऽनवद्याङ्गी वनाय मदिरे क्षणे। अनुगच्छस्व मां भीरु सहधर्मचरी भव ।।2.30.40।।

Meaning