← Ayodhyā Kāṇḍa

Sarga 30: Sītā's Request Granted

वनगमनाभ्युपपत्तिः

vanagamanābhyupapattiḥ — word-by-word gloss for all 47 shlokas.

Page 5 of 547 shlokas in this sarga (verified max-across-sources)
Shloka 30.41Word-by-word available

सर्वथा सदृशं सिते मम स्वस्य कुलस्य च। व्यवसायमतिक्रान्ता सिते त्वमतिशोभनम् ।।2.30.41।।

Meaning

Shloka 30.42Word-by-word available

आरभस्व गुरुश्रोणि वनवासक्षमाः क्रियाः। नेदानीं त्वदृते सिते स्वर्गोऽपि मम रोचते ।।2.30.42।।

Meaning

Shloka 30.43Word-by-word available

ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम्। देहि चाशंसमानेभ्यः सन्त्वरस्व च मा चिरम् ।।2.30.43।।

Meaning

Shloka 30.44Word-by-word available

भूषणानि महार्हाणि वरवस्त्राणि यानि च। रमणीयाश्च ये केचित्क्रीडार्थाश्चाप्युपस्कराः ।।2.30.44।।

Meaning

Shloka 30.45Word-by-word available

शयनीयानि यानानि मम चान्यानि यानि च। देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम् ।।2.30.45।।

Meaning

Shloka 30.46Word-by-word available

अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः। क्षिप्रं प्रमुदिता देवी दातुमेवोपचक्रमे ।।2.30.46।।

Meaning

Shloka 30.47Word-by-word available

ततः प्रहृष्टा प्रतिपूर्णमानसा यशस्विनी भर्तुरवेक्ष्य भाषितम्। धनानि रत्नानि च दातुमङ्गना प्रचक्रमे धर्मभृतां मनस्विनी ।।2.30.47।।

Meaning