Sarga 7: Mantharā's Lament
मन्थरापरिदेवनम्
mantharāparidevanam — word-by-word gloss for all 36 shlokas.
Jump to a shloka · 36 in this sarga
सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता। दह्यमानाऽनलेनेव त्वद्धितार्थमिहागता ।।2.7.21।।
Meaning
तव दुःखेन कैकेयि मम दुःखं महद्भवेत्। त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः ।।2.7.22।।
Meaning
नराधिपकुले जाता महिषी त्वं महीपतेः। उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे ।।2.7.23।।
Meaning
धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः। शुद्धभावेन जानीषे तेनैवमतिसन्धिता ।।2.7.24।।
Meaning
उपस्थितं प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम्। अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति ।।2.7.25।।
Meaning
अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु। काल्ये स्थापयिता रामं राज्ये निहतकण्टके ।।2.7.26।।
Meaning
शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया। आशीविष इवाङ्केन बाले परिहृतस्त्वया ।।2.7.27।।
Meaning
यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः। राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ।।2.7.28।।
Meaning
पापेनानृतसान्त्वेन बाले नित्यसुखोचिते। रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि ।।2.7.29।।
Meaning
सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव। त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ।।2.7.30।।
Meaning