Sarga 7: Mantharā's Lament
मन्थरापरिदेवनम्
mantharāparidevanam — word-by-word gloss for all 36 shlokas.
Jump to a shloka · 36 in this sarga
मन्थराया वचः श्रुत्वा शयनात्सा शुभानना। उत्तस्थौ हर्षसम्पूर्णा चन्द्रलेखेव शारदी ।।2.7.31।।
Meaning
अतीव सा तु संहृष्टा कैकेयी विस्मयान्विता। एकमाभरणं तस्यै कुब्जायै प्रददौ शुभम् ।।2.7.32।।
Meaning
दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा। कैकेयी मन्थरां दृष्ट्वा पुनरेवाब्रवीदिदम् ।।2.7.33।।
Meaning
इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम्। एतन्मे प्रियमाख्यातं भूयः किं वा करोमि ते ।।2.7.34।।
Meaning
रामे वा भरते वाऽहं विशेषं नोपलक्षये। तस्मात्तुष्टाऽस्मि यद्राजा रामं राज्येऽभिषेक्ष्यति ।।2.7.35।।
Meaning
न मे परं किञ्चिदितस्त्वया पुनः प्रियं प्रियार्हे सुवचं वचो वरम्। तथा ह्यवोचस्त्वमतः प्रियोत्तरं परं वरं ते प्रददामि तं वृणु ।।2.7.36।।
Meaning