Sarga 105: Rāma's Words
रामवाक्यम्
rāmavākyam — word-by-word gloss for all 46 shlokas.
Jump to a shloka · 46 in this sarga
वयसः पतमानस्य स्रोतसोऽनिवर्तिनः । आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः ।।2.105.31।।
Meaning
धर्मात्मा स शुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः । धूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः ।।2.105.32।।
Meaning
भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात् । अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं गतः ।।2.105.33।।
Meaning
कर्मभिस्तु शुभैरिष्टैः क्रतुभिश्चाप्तदक्षिणैः । स्वर्गं दशरथः प्राप्तः पिता नः पृथिवीपतिः ।।2.105.34।।
Meaning
इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् । उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः ।।2.105.35।।
Meaning
आयुरुत्तममासाद्य भोगानपि च राघवः । स न शोच्यः पिता तातः स्वर्गतः सत्कृतः सताम् ।।2.105.36।।
Meaning
स जीर्णं मानुषं देहं परित्यज्य पिता हि नः । दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ।।2.105.37।।
Meaning
तं तु नैवंविधः कश्चित् प्राज्ञः शोचितुमर्हति । तद्विधो यद्विधश्चापि श्रुतवान् बुद्धिमत्तरः ।।2.105.38।।
Meaning
एते बहुविधाः शोका विलापरुदिते तथा । वर्जनीया हि धीरेण सर्वावस्थासु धीमता ।।2.105.39।।
Meaning
स स्वस्थो भव माशोचीर्यात्वा चावस तां पुरीम् । तथा पित्रा नियुक्तोऽसि वशिना वदतां वर ।।2.105.40।।
Meaning