Sarga 119: Entering the Daṇḍaka Forest
दण्डकारण्यप्रवेशः
daṇḍakāraṇyapraveśaḥ — word-by-word gloss for all 22 shlokas.
Jump to a shloka · 22 in this sarga
अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि । प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ।।2.119.11।।
Meaning
सा तथा समलङ्कृत्य सीता सुरसुतोपमा । प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ।।2.119.12।।
Meaning
तथा तु भूषितां सीतां ददर्श वदतां वरः । राघवः प्रीतिदानेन तपस्विन्या जहर्ष च ।।2.119.13।।
Meaning
न्यवेदयत्ततः सर्वं सीता रामाय मैथिली । प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ।।2.119.14।।
Meaning
प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथः । मैथिल्याः सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ।।2.119.15।।
Meaning
ततस्तां शर्वरीं प्रीतः पुण्यां शशिनिभाननः । अर्चितस्तापसैः सिद्धैरुवास रघुनन्दनः ।।2.119.16।।
Meaning
तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् । आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ।।2.119.17।।
Meaning
तावूचुस्ते वनचरास्तापसा धर्मचारिणः । वनस्य तस्य सञ्चारं राक्षसैः समभिप्लुतम् ।।2.119.18।।
Meaning
रक्षांसि पुरुषादानि नानारूपाणि राघव । वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशनाः ।।2.119.19।।
Meaning
उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् । अदन्त्यस्मिन् महारण्ये तान्निवारय राघव ।।2.119.20।।
Meaning