Sarga 95: The Mandākinī Described
मन्दाकिनीवर्णना
mandākinīvarṇanā — word-by-word gloss for all 19 shlokas.
Jump to a shloka · 19 in this sarga
तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजाः । अधिरोहन्ति कल्याणि विकूजन्तः शुभा गिरः ।।2.95.11।।
Meaning
दर्शनं चित्रकूटस्य मन्दाकिन्याश्च शोभने । अधिकं पुरवासाच्च मन्ये च तव दर्शनात् ।।2.95.12।।
Meaning
विधूतकलुषैः सिद्धैस्तपोदमशमान्वितैः । नित्यविक्षोभितजलां विगाहस्व मया सह ।।2.95.13।।
Meaning
सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम् । कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ।।2.95.14।।
Meaning
त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् । मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ।।2.95.15।।
Meaning
लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थितः । त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ।।2.95.16।।
Meaning
उपस्पृशंस्त्रिषवणं मधुमूलफलाशनः । नायोध्यायै न राज्याय स्पृहयेऽद्य त्वया सह ।।2.95.17।।
Meaning
इमां हि रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरैः । सुपुष्पितैः पुष्पधरैरलङ्कृतां न सोऽस्ति यः स्यादगतक्लमः सुखी ।।2.95.18।।
Meaning
इतीव रामो बहुसङ्गतं वचः प्रियासहायः सरितं प्रति ब्रुवन् । चचार रम्यं नयनाञ्जनप्रभम् स चित्रकूटं रघुवंशवर्धनः ।।2.95.19।।
Meaning