Sarga 72: Bharata's Anguish
भरतसन्तापः
bharatasantāpaḥ — word-by-word gloss for all 54 shlokas.
Jump to a shloka · 54 in this sarga
शून्योऽयं शयनीयस्ते पर्यङ्को हेमभूषितः । न चायमिक्ष्वाकुजनः प्रहृष्टः प्रतिभाति मे ।।2.72.11।।
Meaning
राजा भवति भूयिष्ठमिहाम्बाया निवेशने । तमहं नाद्य पश्यामि द्रष्टुमिच्छन्निहागतः ।।2.72.12।।
Meaning
पितुर्ग्रहीष्ये चरणौ तं ममाख्याहि पृच्छतः । आहोस्विदम्ब ज्येष्ठायाः कौसल्याया निवेशने ।।2.72.13।।
Meaning
तं प्रत्युवाच कैकेयी प्रियवद्घोरमप्रियम् । अजानन्तं प्रजानन्ती राज्यलोभेन मोहिता ।।2.72.14।।
Meaning
या गतिः सर्वभूतानां तां गतिं ते पिता गतः । राजा महात्मा तेजस्वी यायजूकः सतां गतिः ।।2.72.15।।
Meaning
तच्छ्रुत्वा भरतः वाक्यं धर्माभिजनवान् शुचिः । पपात सहसा भूमौ पितृशोकबलार्दितः ।।2.72.16।।
Meaning
हा हतोऽस्मीति कृपणां दीनां वाचमुदीरयन् । निपपात महाबाहुर्बाहुं विक्षिप्य वीर्यवान् ।।2.72.17।।
Meaning
ततः शोकेन संवीतः पितुर्मरणदुःखितः । विललाप महातेजाः भ्रान्ताकुलितचेतनः ।।2.72.18।।
Meaning
एतत्सुरुचिरं भाति पितुर्मे शयनं पुरा । शशिनेवामलं रात्रौ गगनं तोयदात्यये ।।2.72.19।।
Meaning
तदिदं न विभात्यद्य विहीनं तेन धीमता । व्योमेव शशिना हीनमपच्छुष्क इव सागरः ।।2.72.20।।
Meaning