Sarga 72: Bharata's Anguish
भरतसन्तापः
bharatasantāpaḥ — word-by-word gloss for all 54 shlokas.
Jump to a shloka · 54 in this sarga
बाष्पमुत्सृज्य कण्ठेन स्वार्तः परिपीडितः । प्रच्छाद्य वदनं श्रीमद्वस्त्रेण जयतां वरः ।।2.72.21।।
Meaning
तमार्तं देवसङ्काशं समीक्ष्य पतितं भुवि । निकृत्तमिव सालस्य स्कन्धं परशुना वने ।।2.72.22।।
Meaning
मत्तमातङ्गसङ्काशं चन्द्रार्कसदृशं भुवः । उत्थापयित्वा शोकार्तं वचनं चेदमब्रवीत् ।।2.72.23।।
Meaning
उत्तिष्ठोत्तिष्ठ किं शेषे राजपुत्र महायशः । त्वद्विधा न हि शोचन्ति सन्तः सदसि सम्मताः ।।2.72.24।।
Meaning
दानयज्ञाधिकारा हि शीलश्रुतिवचोनुगा । बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे ।।2.72.25।।
Meaning
स रुदित्वा चिरं कालं भूमौ विपरिवृत्य च । जननीं प्रत्युवाचेदं शोकैः बहुभिरावृतः ।।2.72.26।।
Meaning
अभिषेक्ष्यति रामं नु राजा यज्ञं नु यक्ष्यते । इत्यहं कृतसङ्कल्पो हृष्टः यात्रामयासिषम् ।।2.72.27।।
Meaning
तदिदं ह्यन्यथाभूतं व्यवदीर्णं मनो मम । पितरं यो न पश्यामि नित्यं प्रियहिते रतम् ।।2.72.28।।
Meaning
अम्ब केनात्यगाद्राजा व्याधिना मय्यनागते । धन्या रामादयः सर्वे यैः पिता संस्कृतस्स्वयम् ।।2.72.29।।
Meaning
न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान् । उपजिघ्रेद्धि मां मूर्ध्नि तात सन्नम्य सत्वरम् ।।2.72.30।।
Meaning