← Ayodhyā Kāṇḍa

Sarga 72: Bharata's Anguish

भरतसन्तापः

bharatasantāpaḥ — word-by-word gloss for all 54 shlokas.

Page 4 of 654 shlokas in this sarga (verified max-across-sources)
Shloka 72.31Word-by-word available

क्व स पाणिः सुखस्पर्शस्तातस्याक्लिष्टकर्मणः । येन मां रजसा ध्वस्तमभीक्ष्णं परिमार्जति ।।2.72.31।।

Meaning

Shloka 72.32Word-by-word available

यो मे भ्राता पिता बन्धुर्यस्य दासोऽस्मि धीमतः । तस्य मां शीघ्रमाख्याहि रामस्याक्लिष्टकर्मणः ।।2.72.32।।

Meaning

Shloka 72.33Word-by-word available

पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः । तस्य पादौ ग्रहीष्यामि स हीदानीं गतिर्मम ।।2.72.33।।

Meaning

Shloka 72.34Word-by-word available

धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः । आर्यः किमब्रवीद्राजा पिता मे सत्यविक्रमः ।।2.72.34।।

Meaning

Shloka 72.35Word-by-word available

पश्चिमं साधु सन्देशमिच्छामि श्रोतुमात्मनः । इति पृष्टा यथातत्त्वं कैकेयी वाक्यमब्रवीत् ।।2.72.35।।

Meaning

Shloka 72.36Word-by-word available

रामेति राजा विलपन् हा सीते लक्ष्मणेति च । स महात्मा परं लोकं गतः गतिमतां वरः ।।2.72.36।।

Meaning

Shloka 72.37Word-by-word available

इमां तु पश्चिमां वाचं व्याजहार पिता तव । कालधर्मपरिक्षिप्तः पाशैरिव महागजः ।।2.72.37।।

Meaning

Shloka 72.38Word-by-word available

सिद्धार्थास्ते नरा राममागतं सीतया सह । लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनरागतम् ।।2.72.38।।

Meaning

Shloka 72.39Word-by-word available

तच्छ्रुत्वा विषसादैव द्वितीया प्रियशंसनात् । विषण्णवदनो भूत्वा भूयः पप्रच्छ मातरम् ।।2.72.39।।

Meaning

Shloka 72.40Word-by-word available

क्व चेदानीं स धर्मात्मा कौसल्यानन्दवर्धनः । लक्ष्मणेन सह भ्रात्रा सीतया च समं गतः ।।2.72.40।।

Meaning