Sarga 72: Bharata's Anguish
भरतसन्तापः
bharatasantāpaḥ — word-by-word gloss for all 54 shlokas.
Jump to a shloka · 54 in this sarga
तथा पृष्टा यथा तत्त्वमाख्यातुमुपचक्रमे । मातास्य युगपद्वाक्यं विप्रियं प्रियशङ्कया ।।2.72.41।।
Meaning
स हि राजसुतः पुत्र चीरवासा महावनम् । दण्डकान् सह वैदेह्या लक्ष्मणानुचरः गतः ।।2.72.42।।
Meaning
तच्छ्रुत्वा भरतस्त्रस्तः भ्रातुश्चारित्रशङ्कया । स्वस्य वंशस्य माहात्म्यात् प्रष्टुं समुपचक्रमे ।।2.72.43।।
Meaning
कच्चिन्न ब्राह्मणधनं हृतं रामेण कस्यचित् । कच्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः ।।2.72.44।।
Meaning
कच्चिन्न परदारान्वा राजपुत्रोऽभिमन्यते । कस्मात्स दण्डकारण्ये भ्रूणहेव विवासितः ।।2.72.45।।
Meaning
अथास्य चपला माता तत्स्वकर्म यथातथम् । तेनैव स्त्रीस्वभावेन व्याहर्तुमुपचक्रमे ।।2.72.46।।
Meaning
एवमुक्ता तु कैकेयी भरतेन महात्मना । उवाच वचनं हृष्टा मूढा पण्डितमानिनी ।।2.72.47।।
Meaning
न ब्राह्मणधनं किञ्चिद्धृतं रामेण कस्यचित् । कश्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः ।।2.72.48।।
Meaning
न रामः परदारांश्च चक्षुर्भ्यामपि पश्यति । मया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम् ।।2.72.49।।
Meaning
याचितस्ते पिता राज्यं रामस्य च विवासनम् । स स्ववृत्तिं समास्थाय पिता ते तत्तथाऽकरोत् ।।2.72.50।।
Meaning