Sarga 45: The Citizens' Entreaty
पौरयाचनम्
paurayācanam — word-by-word gloss for all 33 shlokas.
Jump to a shloka · 33 in this sarga
ब्राह्मण्यं कृत्स्नमेतत्त्वां ब्रह्मण्यमनुगच्छति । द्विजस्कन्धाधिरूढास्त्वाम् अग्नयोऽप्यनुयान्त्यमी ।।2.45.21।।
Meaning
वाजपेयसमुत्थानि छत्राण्येतानि पश्य नः । पृष्ठतोनुप्रयातानि मेघानिव जलात्यये ।।2.45.22।।
Meaning
अनवाप्तातपत्रस्य रश्मिसन्तापितस्य ते । एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयिकैः ।।2.45.23।।
Meaning
या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी । त्वत्कृते सा कृता वत्स वनवासानुसारिणी ।।2.45.24।।
Meaning
हृदयेष्वेव तिष्ठन्ति वेदा ये नः परं धनम् । वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः ।।2.45.25।।
Meaning
न पुनर्निश्चयः कार्यस्त्वद्गतौ सुकृता मतिः । त्वयि धर्मव्यपेक्षे तु किं स्याद्धर्ममपेक्षितुम् ।।2.45.26।।
Meaning
याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः । शिरोभिर्निभृताचार महीपतनपांसुलैः ।।2.45.27।।
Meaning
बहूनां वितता यज्ञा द्विजानां य इहागताः । तेषां समाप्तिरायत्ता तव वत्स निवर्तने ।।2.45.28।।
Meaning
भक्तिमन्ति हि भूतानि जङ्गमाऽजङ्गमानि च । याचमानेषु राम त्वं भक्तिं भक्तेषु दर्शय ।।2.45.29।।
Meaning
अनुगन्तुमशक्तास्त्वां मूलैरुद्धतवेगिनः । उन्नता वायुवेगेन विक्रोशन्तीव पादपाः ।।2.45.30।।
Meaning