Sarga 44: Sumitrā Consoles Kausalyā
सुमित्राश्वासनम्
sumitrāśvāsanam — word-by-word gloss for all 31 shlokas.
Jump to a shloka · 31 in this sarga
निवृत्तवनवासं तं द्रष्टासि पुनरागतम् । जहि शोकं च मोहं च देवि सत्यं ब्रवीमि ते ।।2.44.21।।
Meaning
शिरसा चरणावेतौ वन्दमानमनिन्दिते । पुनर्द्रक्ष्यसि कल्याणि पुत्रं चन्द्रमिवोदितम् ।।2.44.22।।
Meaning
पुनः प्रविष्टं दृष्ट्वा तमभिषिक्तं महाश्रियम् । समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रमानन्दजं पयः ।।2.44.23।।
Meaning
मा शोको देवि दुःखं वा न रामे दृश्यतेऽशिवम् । क्षिप्रं द्रक्ष्यसि पुत्रं त्वं ससीतं सहलक्ष्मणम् ।।2.44.24।।
Meaning
त्वयाऽशेषो जनश्चैव समाश्वास्यो यदाऽनघे । किमिदानीमिमं देवि करोषि हृदि विक्लबम् ।।2.44.25।।
Meaning
नार्हा त्वं शोचितुं देवि यस्यास्ते राघवः सुतः । न हि रामात्परो लोके विद्यते सत्पथे स्थितः ।।2.44.26।।
Meaning
अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम् । मुदाऽश्रु मोक्ष्यसे क्षिप्रं मेघलेखेव वार्षिकी ।।2.44.27।।
Meaning
पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः । पाणिभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति ।।2.44.28।।
Meaning
अभिवाद्य नमस्यन्तं शूरं ससुहृदं सुतम् । मुदाऽस्त्रैः प्रोक्ष्यसि पुनर्मेघराजिरिवाचलम् ।।2.44.29।।
Meaning
आश्वासयन्ती विविधैश्च वाक्यैः वाक्योपचारे कुशलाऽनवद्या । रामस्य तां मातरमेवमुक्त्वा देवी सुमित्रा विरराम रामा ।।2.44.30।।
Meaning