← Ayodhyā Kāṇḍa

Sarga 74: Bharata Upbraids Kaikeyī

कैकेय्याक्रोशः

kaikeyyākrośaḥ — word-by-word gloss for all 36 shlokas.

Page 2 of 436 shlokas in this sarga (verified max-across-sources)
Shloka 74.11Word-by-word available

यत्प्रधानासि तत्पापं मयि पित्रा विना कृते । भ्रातृभ्यां च परित्यक्ते सर्वलोकस्य चाप्रिये ।।2.74.11।।

Meaning

Shloka 74.12Word-by-word available

कौसल्यां धर्मसम्युक्तां वियुक्तां पापनिश्चये । कृत्वा कं प्राप्स्यसे त्वद्य लोकं निरयगामिनी ।।2.74.12।।

Meaning

Shloka 74.13Word-by-word available

किं नावबुध्यसे क्रूरे नियतं बन्धुसंश्रयम् । ज्येष्ठं पितृसमं रामं कौसल्यायात्मसम्भवम् ।।2.74.13।।

Meaning

Shloka 74.14Word-by-word available

अङ्गप्रत्यङ्गजः पुत्रः हृदयाच्चापि जायते । तस्मात्प्रियतमो मातुः प्रियत्वान्न तु बान्धवः ।।2.74.14।।

Meaning

Shloka 74.15Word-by-word available

अन्यदा किल धर्मज्ञा सुरभिः सुरसम्मता । वहमानौ ददर्शोर्व्यां पुत्रौ विगतचेतसौ ।।2.74.15।।

Meaning

Shloka 74.16Word-by-word available

तावर्धदिवसे श्रान्तौ दृष्ट्वा पुत्रौ महीतले । रुरोद पुत्रशोकेन बाष्पपर्याकुलेक्षणा ।।2.74.16।।

Meaning

Shloka 74.17Word-by-word available

अधस्ताद्व्रजतस्तस्याः सुरराज्ञो महात्मनः । बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः ।।2.74.17।।

Meaning

Shloka 74.18Word-by-word available

इन्द्रोऽप्यश्रुनिपातं तं स्वगात्रे पुण्यगन्धिनम् । सुरभिं मन्यते दृष्ट्वा भूयसीं तां सुरेश्वरः ।।2.74.18।।

Meaning

Shloka 74.19Word-by-word available

निरीक्षमाणः शक्रस्तां ददर्श सुरभिं स्थिताम् । आकाशे विष्ठितां दीनां रुदतीं भृशदुःखिताम् ।।2.74.19।।

Meaning

Shloka 74.20Word-by-word available

तां दृष्ट्वा शोकसन्तप्तां वज्रपाणिर्यशस्विनीम् । इन्द्रः प्राञ्जलिरुद्विग्नः सुरराजोऽब्रवीद्वचः ।।2.74.20।।

Meaning