Sarga 74: Bharata Upbraids Kaikeyī
कैकेय्याक्रोशः
kaikeyyākrośaḥ — word-by-word gloss for all 36 shlokas.
Jump to a shloka · 36 in this sarga
भयं कच्चिन्न चास्मासु कुतश्चिद्विद्यते महत् । कुतोनिमित्तः शोकस्ते ब्रूहि सर्वहितैषिणि ।।2.74.21।।
Meaning
एवमुक्ता तु सुरभिः सुरराजेन धीमता । पत्युवाच ततो धीरा वाक्यं वाक्यविशारदा ।।2.74.22।।
Meaning
शान्तं पापं न वः किञ्चित् कुतश्चिदमराधिप । अहं तु मग्नौ शोचामि स्वपुत्रौ विषमे स्थितौ ।।2.74.23।।
Meaning
एतौ दृष्ट्वा कृशौ दीनौ सूर्यरश्मिप्रतापिनौ । अर्द्यमानौ बलीवर्दौ कर्षकेण सुराधिप ।।2.74.24।।
Meaning
मम कायात् प्रसूतौ हि दुःखितौ भारपीडितौ । यौ दृष्ट्वा परितप्येऽहं नास्ति पुत्रसमः प्रियः ।।2.74.25।।
Meaning
यस्याः पुत्रसहस्रैस्तु कृत्स्नं व्याप्तमिदं जगत् । तां दृष्ट्वा रुदतीं शक्रो न सुतान्मन्यते परम् ।।2.74.26।।
Meaning
सदाप्रतिमवृत्ताया लोकधारणकाम्यया । श्रीमत्या गुणनित्यायाः स्वभावपरिचेष्टया ।।2.74.27।।
Meaning
यस्याः पुत्रसहस्राणि सापि शोचति कामधुक् । किं पुनर्या विना रामं कौसल्या वर्तयिष्यति ।।2.74.28।।
Meaning
एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता । तस्मात्त्वं सततं दुःखं प्रेत्य चेह च लप्स्यसे ।।2.74.29।।
Meaning
अहं ह्यपचितिं भ्रातुः पितुश्च सकलामिमाम् । वर्धनं यशसश्चापि करिष्यामि न संशयः ।।2.74.30।।
Meaning