Sarga 79: The Ministers' Plea Refused
सचिवप्रार्थनाप्रतिषेधः
sacivaprārthanāpratiṣedhaḥ — word-by-word gloss for all 17 shlokas.
Jump to a shloka · 17 in this sarga
तत्रैव तं नरव्याघ्रमभिषिच्य पुरस्कृतम् । आनेष्यामि तु वै रामं हव्यवाहमिवाध्वरात् ।।2.79.11।।
Meaning
न सकामां करिष्यामि स्वामिमां मातृगन्धिनीम् । वने वत्स्याम्यहं दुर्गे रामः राजा भविष्यति ।।2.79.12।।
Meaning
क्रियतां शिल्पिभिः पन्थाः समानि विषमाणि च । रक्षिणश्चानुसम्यान्तु पथिदुर्गविचारकाः ।।2.79.13।।
Meaning
एवं सम्भाषमाणं तं रामहेतोर्नृपात्मजम् । प्रत्युवाच जनस्सर्वः श्रीमद्वाक्यमनुत्तमम् ।।2.79.14।।
Meaning
एवं ते भाषमाणस्य पद्मा श्रीरुपतिष्ठताम् । यस्त्वं ज्येष्ठे नृपसुते पृथिवीं दातुमिच्छसि ।।2.79.15।।
Meaning
अनुत्तमं तद्वचनं नृपात्मज प्रभाषितं संश्रवणे निशम्य च । प्रहर्षजास्तं प्रति बाष्पबिन्दवो निपेतुरार्यानननेत्रसम्भवाः ।।2.79.16।।
Meaning
ऊचुस्ते वचनमिदं निशम्य हृष्टाः सामात्याः सपरिषदो वियातशोकाः । पन्थानं नरवर भक्तिमान् जनश्च व्यादिष्टास्तव वचनाच्च शिल्पिवर्गः ।।2.79.17।।
Meaning