Sarga 12: Daśaratha Tries to Turn Kaikeyī
कैकेयीनिवर्तनप्रयासः
kaikeyīnivartanaprayāsaḥ — word-by-word gloss for all 114 shlokas.
Jump to a shloka · 114 in this sarga
अपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम्। विप्रकारं च रामस्य सम्प्रयाणं वनस्य च ।।2.12.71।।
Meaning
सुमित्रा प्रेक्ष्य वै भीता कथं मे विश्वसिष्यति। कृपणं बत वैदेही श्रोष्यति द्वयमप्रियम् ।।2.12.72।।
Meaning
मां च पञ्चत्वमापन्नं रामं च वनमाश्रितम्। वैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति ।।2.12.73।।
Meaning
हीना हिमवतः पार्श्वे किन्नरेणेव किन्नरी। न हि राममहं दृष्ट्वा प्रवसन्तं महावने ।।2.12.74।।
Meaning
चिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम्। सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि ।।2.12.75।।
Meaning
न हि प्रवाजिते रामे देवि जीवितुमुत्सहे। सतीं त्वामहमत्यन्तं व्यवस्याम्यसतीं सतीम् ।।2.12.76।।
Meaning
रूपिणीं विषसम्युक्तां पीत्वेव मदिरां नरः। अनृतैर्बत मां सान्त्वैः सान्त्वयन्ती स्म भाषसे ।।2.12.77।।
Meaning
गीतशब्देन संरुद्ध्य लुब्धो मृगमिवावधीः। अनार्य इति मामार्याः पुत्रविक्रायकं ध्रुवम् ।।2.12.78।।
Meaning
धिक्करिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा। अहो दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव ।।2.12.79।।
Meaning
दुःखमेवंविधं प्राप्तं पुराकृतमिवाशुभम्। चिरं खलु मया पापे त्वं पापेनाभिरक्षिता ।।2.12.80।।
Meaning