Sarga 12: Daśaratha Tries to Turn Kaikeyī
कैकेयीनिवर्तनप्रयासः
kaikeyīnivartanaprayāsaḥ — word-by-word gloss for all 114 shlokas.
Jump to a shloka · 114 in this sarga
अज्ञानादुपसम्पन्ना रज्जुरुद्बन्धिनी यथा। रममाणस्त्वया सार्धं मृत्युं त्वां नाभिलक्षये ।।2.12.81।।
Meaning
बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम्। मया ह्यपितृकः पुत्रः स महात्मा दुरात्मना ।।2.12.82।।
Meaning
तं तु मां जीवलोकोयं नूनमाक्रोष्टुमर्हति। बालिशो बत कामात्मा राजा दशरथो भृशम् ।।2.12.83।।
Meaning
यः स्त्रीकृते प्रियं पुत्रं वनं प्रस्थापयिष्यति। व्रतैश्च ब्रह्मचर्यैश्च गुरुभिश्चोपकर्शितः ।।2.12.84।।
Meaning
भोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते। नालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम् ।।2.12.85।।
Meaning
स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति। यदि मे राघवः कुर्याद्वनं गच्छेति चोदितुः ।।2.12.86।।
Meaning
प्रतिकूलं प्रियं मे स्यात् न तु वत्सः करिष्यति। शुद्धभावो हि भावं मे न तु ज्ञास्यति राघवः ।।2.12.87।।
Meaning
स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति। राघवे हि वनं प्राप्ते सर्वलोकस्य धिक्कृतम् ।।2.12.88।।
Meaning
मृत्युरक्षमणीयं मां नयिष्यति यमक्षयम्। मृते मयि गते रामे वनं मनुजपुङ्गवे ।।2.12.89।।
Meaning
इष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे। कौसल्या मां च रामं च पुत्रौ च यदि हास्यति ।।2.12.90।।
Meaning