Sarga 12: Daśaratha Tries to Turn Kaikeyī
कैकेयीनिवर्तनप्रयासः
kaikeyīnivartanaprayāsaḥ — word-by-word gloss for all 114 shlokas.
Jump to a shloka · 114 in this sarga
दुःखान्यसहती देवी मामेवानुमरिष्यति। कौसल्यां च सुमित्रां च मां च पुत्रैस्त्रिभिः सह ।।2.12.91।।
Meaning
प्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव। मया रामेण च त्यक्तं शाश्वतं सत्कृतं गुणैः ।।2.12.92।।
Meaning
इक्ष्वाकुकुलमक्षोभ्यमाकुलं पालयिष्यसि। प्रियं चेद्भरतस्यैतद्रामप्रव्राजनं भवेत् ।।2.12.93।।
Meaning
मा स्म मे भरतः कार्षीत्प्रेतकृत्यं गतायुषः। हन्तानार्ये ममामित्रे सकामा भव कैकयि ।।2.12.94।।
Meaning
मृते मयि गते रामे वनं पुरुषपुङ्गवे। सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि ।।2.12.95।।
Meaning
त्वं राजपुत्रीवादेन न्यवसो मम वेश्मनि। अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे ।।2.12.96।।
Meaning
सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा। कथं रथैर्विभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः ।।2.12.97।।
Meaning
पद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति। यस्य त्वाहारसमये सूदाः कुण्डलधारिणः ।।2.12.98।।
Meaning
अहंपुर्वाः पचन्ति स्म प्रशस्तं पानभोजनम्। स कथं नु कषायाणि तिक्तानि कटुकानि च ।।2.12.99।।
Meaning
भक्षयन्वन्यमाहारं सुतो मे वर्तयिष्यति। महार्हवस्त्रसंवीतो भूत्वा चिरसुखोषितः ।।2.12.100।।
Meaning