Sarga 12: Daśaratha Tries to Turn Kaikeyī
कैकेयीनिवर्तनप्रयासः
kaikeyīnivartanaprayāsaḥ — word-by-word gloss for all 114 shlokas.
Jump to a shloka · 114 in this sarga
काषायपरिधानस्तु कथं भूमौनिवत्स्यति। कस्यैतद्दारुणं वाक्यमेवंविधमचिन्तितम् ।।2.12.101।।
Meaning
रामस्यारण्यगमनं भरतस्याभिषेचनम्। धिगस्तु योषितो नाम शठाः स्वार्थपराः सदा। न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् ।।2.12.102।।
Meaning
अनर्थभावेऽर्थपरे नृशंसे ममानुतापाय निविष्टभावे। किमप्रियं पश्यसि मन्निमित्तं हितानुकारिण्यथवापि रामे ।।2.12.103।।
Meaning
परित्यजेयुः पितरो हि पुत्रान्भार्याः पतींश्चापि कृतानुरागाः। कृत्स्नं हि सर्वं कुपितं जगत्स्याद्दृष्ट्वैव रामं व्यसने निमग्नम् ।।2.12.104।।
Meaning
अहं पुनर्देवकुमाररूपमलङ्कृतं तं सुतमाव्रजन्तम्। नन्दामि पश्यन्नपि दर्शनेन भवामि दृष्ट्वा च पुनर्युवेव ।।2.12.105।।
Meaning
विनापि सूर्येण भवेत्प्रवृत्तिरवर्षता वज्रधरेण वापि। रामं तु गच्छन्तमितः समीक्ष्य जीवेन्न कश्चित्त्विति चेतना मे ।।2.12.106।।
Meaning
विनाशकामामहिताममित्रामावासयं मृत्युमिवात्मनस्त्वाम्। चिरं बतङ्केन धृतासि सर्पी महाविषा तेन हतोऽस्मि मोहात् ।।2.12.107।।
Meaning
मया च रामेण च लक्ष्मणेन प्रशास्तु हीनो भरतस्त्वया सह। पुरं च राष्ट्रं च निहत्य बान्धवान् ममाहितानां च भवाभिहर्षिणी ।।2.12.108।।
Meaning
नृशंसवृत्ते व्यसनप्रहारिणि प्रसह्य वाक्यं यदिहाद्य भाषसे। न नाम ते केन मुखात्पतन्त्यधो विशीर्यमाणा दशनाः सहस्रधा ।।2.12.109।।
Meaning
न किञ्चिदाहाहितमप्रियं वचो न वेत्ति रामः परुषाणि भाषितुम्। कथं नु रामे ह्यभिरामवादिनि ब्रवीषि दोषान्गुण नित्यसम्मते ।।2.12.110।।
Meaning