← Ayodhyā Kāṇḍa

Sarga 37: Vasiṣṭha's Anger over the Bark Garments

चीरपरिग्रहनिमित्तवसिष्ठक्रोधः

cīraparigrahanimittavasiṣṭhakrodhaḥ — word-by-word gloss for all 37 shlokas.

Page 4 of 437 shlokas in this sarga (verified max-across-sources)
Shloka 37.31Word-by-word available

यद्यपि त्वं क्षितितलाद्गगनं चोत्पतिष्यसि । पितृर्वंशचरित्रज्ञः सोऽन्यथा न करिष्यति ।।2.37.31।।

Meaning

Shloka 37.32Word-by-word available

तत्त्वया पुत्रगर्धिन्या पुत्रस्य कृतमप्रियम् । लोके हि स न विद्येत यो न राममनुव्रतः ।।2.37.32।।

Meaning

Shloka 37.33Word-by-word available

द्रक्ष्यस्यद्यैव कैकेयि पशुव्यालमृगद्विजान् । गच्छतः सह रामेण पादपांश्च तदुन्मुखान् ।।2.37.33।।

Meaning

Shloka 37.34Word-by-word available

अथोत्तमान्याभरणानि देवि देहि स्नुषायै व्यपनीय चीरम् । न चीरमस्याः प्रविधीयतेति न्यवारयत्तद्वसनं वसिष्ठः ।।2.37.34।।

Meaning

Shloka 37.35Word-by-word available

एकस्य रामस्य वने निवासस्त्वया वृतः केकयराजपुत्री । विभूषितेयं प्रतिकर्मनित्या वसत्वरण्ये सह राघवेण ।।2.37.35।।

Meaning

Shloka 37.36Word-by-word available

यानैश्च मुख्यैः परिचारकैश्च सुसंवृता गच्छतु राजपुत्री । वस्त्रैश्च सर्वैः सहितैर्विधानैर्नेयं वृता ते वरसम्प्रदाने ।।2.37.36।।

Meaning

Shloka 37.37Word-by-word available

तस्मिंस्तथा जल्पति विप्रमुख्ये गुरौ नृपस्याप्रतिमप्रभावे । नैव स्म सीता विनिवृत्तभावा प्रियस्य भर्तुः प्रतिकारकामा ।।2.37.37।।

Meaning