Sarga 114: Entry into Ayodhyā
अयोध्याप्रवेशः
ayodhyāpraveśaḥ — word-by-word gloss for all 31 shlokas.
Jump to a shloka · 31 in this sarga
सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् । संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ।।2.114.11।।
Meaning
पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् । द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ।।2.114.12।।
Meaning
सम्मूढनिगमां स्तब्धां सङ्क्षिप्तविपणापणाम् । प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ।।2.114.13।।
Meaning
क्षीणपानोत्तमैर्भिन्नैः शरावैरभिसंवृताम् । हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ।।2.114.14।।
Meaning
वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम् । उपयुक्तोदकां भग्नां प्रपां निपतितामिव ।।2.114.15।।
Meaning
विपुलां विततां चैव युक्तपाशां तरस्विनाम् । भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ।।2.114.16।।
Meaning
सहसा युद्धशौण्डेन हयारोहेण वाहिताम् । निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ।।2.114.17।।
Meaning
शुष्कतोयां महामत्स्यैः कूर्मैश्च बहुभिर्वृताम् । प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ।।2.114.18।।
Meaning
पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् । सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ।।2.114.19।।
Meaning
प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् । प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ।।2.114.20।।
Meaning