← Ayodhyā Kāṇḍa

Sarga 114: Entry into Ayodhyā

अयोध्याप्रवेशः

ayodhyāpraveśaḥ — word-by-word gloss for all 31 shlokas.

Jump to a shloka · 31 in this sarga

Page 3 of 431 shlokas in this sarga (verified max-across-sources)
Shloka 114.21Word-by-word available

भरतस्तु रथस्थः सन् श्रीमान् दशरथात्मजः । वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ।।2.114.21।।

Meaning

Shloka 114.22Word-by-word available

किं नु खल्वद्य गम्भीरो मूर्छितो न निशम्यते । यथापुरमयोध्यायां गीतवादित्रनिस्वनः ।।2.114.22।।

Meaning

Shloka 114.23Word-by-word available

वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छितः । धूपितागरुगन्धश्च न प्रवाति समन्ततः ।।2.114.23।।

Meaning

Shloka 114.24Word-by-word available

यानप्रवरघोषश्च स्निग्धश्च हयनिस्वनः । प्रमत्तगजनादश्च महांश्च रथनिस्वनः । नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ।।2.114.24।।

Meaning

Shloka 114.25Word-by-word available

चन्दनागरुगन्धांश्च महार्हाश्च नवस्रजः । गते हि रामे तरुणाः सन्तप्ता नोपभुञ्जते ।।2.114.25।।

Meaning

Shloka 114.26Word-by-word available

बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नराः । नोत्सवाः सम्प्रवर्तन्ते रामशोकार्दिते पुरे ।।2.114.26।।

Meaning

Shloka 114.27Word-by-word available

सह नूनं मम भ्रात्रा पुरस्यास्यद्युतिर्गता । न हि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ।।2.114.27।।

Meaning

Shloka 114.28Word-by-word available

कदा नु खलु मे भ्राता महोत्सव इवागतः । जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुदः ।।2.114.28।।

Meaning

Shloka 114.29Word-by-word available

तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभिः । सम्पतद्भिरयोध्यायां नाभिभान्ति महापथाः ।।2.114.29।।

Meaning

Shloka 114.30Word-by-word available

एवं बहुविधं जल्पन् विवेश वसतिं पितुः । तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ।।2.114.30।।

Meaning