Sarga 20: Kausalyā's Cry
कौसल्याक्रन्दः
kausalyākrandaḥ — word-by-word gloss for all 55 shlokas.
Jump to a shloka · 55 in this sarga
स मातरमभिक्रान्तामुपसङ्गृह्य राघवः। परिष्वक्तश्च बाहुभ्यामुपाघ्रातश्च मूर्धनि ।।2.20.21।।
Meaning
तमुवाच दुराधर्षं राघवं सुतमात्मनः। कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः ।।2.20.22।।
Meaning
वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम्। प्राप्नुह्यायुश्च कीर्तिं च धर्मं चोपहितं कुले ।।2.20.23।।
Meaning
सत्यप्रतिज्ञं पितरं राजानं पश्य राघव। अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति ।।2.20.24।।
Meaning
दत्तमासनमालभ्य भोजनेन निमन्त्रितः। मातरं राघवः किञ्चिद्व्रीडात्प्राञ्जलिरब्रवीत् ।।2.20.25।।
Meaning
स स्वभावविनीतश्च गौरवाच्च तदानतः। प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे ।।2.20.26।।
Meaning
देवि नूनं न जानीषे महद्भयमुपस्थितम्। इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च ।।2.20.27।।
Meaning
गमिष्ये दण्डकारण्यं किमनेनासनेन मे। विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः ।।2.20.28।।
Meaning
चतुर्दश हि वर्षाणि वत्स्यामि विजने वने। मधुमूलफलैर्जीवन्हित्वा मुनिवदामिषम् ।।2.20.29।।
Meaning
भरताय महाराजो यौवराज्यं प्रयच्छति। मां पुनर्दण्डकारण्ये विवासयति तापसम् ।।2.20.30।।
Meaning