Sarga 20: Kausalyā's Cry
कौसल्याक्रन्दः
kausalyākrandaḥ — word-by-word gloss for all 55 shlokas.
Jump to a shloka · 55 in this sarga
स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने। आसेवमानो वन्यानि फलमूलैश्च वर्तयन् ।।2.20.31।।
Meaning
सा निकृत्तेव सालस्य यष्टिः परशुना वने। पपात सहसा देवी देवतेव दिवश्च्युता ।।2.20.32।।
Meaning
तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव। रामस्तूत्थापयामास मातरं गतचेतसम् ।।2.20.33।।
Meaning
उपावृत्योत्थितां दीनां बडबामिव वाहिताम्। पांसुकुण्ठितसर्वाङ्गीं विममर्श च पाणिना ।।2.20.34।।
Meaning
सा राघवमुपासीनमसुखार्ता सुखोचिता। उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे ।।2.20.35।।
Meaning
यदि पुत्र न जायेथाः मम शोकाय राघव। न स्म दुःखमतो भूयः पश्येयमहमप्रजाः ।।2.20.36।।
Meaning
एक एव हि वन्ध्यायाः शोको भवति मानसः। अप्रजास्मीति सन्तापो न ह्यन्यः पुत्र विद्यते ।।2.20.37।।
Meaning
न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे। अपि पुत्रे तु पश्येयमिति रामस्थितं मया ।।2.20.38।।
Meaning
सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम्। अहं श्रोष्ये सपत्नीनामवराणां वरा सती ।।2.20.39।।
Meaning
अतो दुःखतरं किं नु प्रमदानां भविष्यति। मम शोको विलापश्च यादृशोऽयमनन्तकः ।।2.20.40।।
Meaning