Sarga 20: Kausalyā's Cry
कौसल्याक्रन्दः
kausalyākrandaḥ — word-by-word gloss for all 55 shlokas.
Jump to a shloka · 55 in this sarga
त्वयि सन्निहितेऽप्येवमहमासं निराकृता। किं पुनः प्रोषिते तात ध्रुवं मरणमेव मे ।।2.20.41।।
Meaning
अत्यन्तं निगृहीतास्मि भर्तुर्नित्यमतन्त्रिता। परिवारेण कैकेय्याः समा वाऽप्यथवावरा ।।2.20.42।।
Meaning
यो हि मां सेवते कश्चिदथवाऽप्यनुवर्तते। कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते ।।2.20.43।।
Meaning
नित्यक्रोधतया तस्याः कथं नु खरवादि तत्। कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता ।।2.20.44।।
Meaning
दश सप्त च वर्षाणि तव जातस्य राघव। आसितानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम् ।।2.20.45।।
Meaning
तदक्षयमहं दुःखं नोत्सहे सहितुं चिरम्। विप्रकारं सपत्नीनामेवं जीर्णाऽपि राघव ।।2.20.46।।
Meaning
अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम्। कृपणा वर्तयिष्यामि कथं कृपणजीविकाम् ।।2.20.47।।
Meaning
उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः। दुःखसंवर्धितो मोघं त्वं हि दुर्गतया मया ।।2.20.48।।
Meaning
स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते। प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा ।।2.20.49।।
Meaning
ममैव नूनं मरणं न विद्यते न चावकाशोऽस्ति यमक्षये मम। यदन्तकोऽद्यैव न मां जिहीर्षति प्रसह्य सिंहो रुदतीं मृगीमिव ।।2.20.50।।
Meaning