← Ayodhyā Kāṇḍa

Sarga 93: Seeing the Forest of Citrakūṭa

चित्रकूटवनप्रेक्षणम्

citrakūṭavanaprekṣaṇam — word-by-word gloss for all 27 shlokas.

Jump to a shloka · 27 in this sarga

Page 3 of 327 shlokas in this sarga (verified max-across-sources)
Shloka 93.21Word-by-word available

भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः । विविशुस्तद्वनं शूराः धूमं च ददृशुस्ततः ।।2.93.21।।

Meaning

Shloka 93.22Word-by-word available

ते समालोक्य धूमाग्रमूचुर्भरतमागताः । नामनुष्ये भवत्याग्निर्व्यक्तमत्रैव राघवौ ।।2.93.22।।

Meaning

Shloka 93.23Word-by-word available

अथ नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ । मन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः ।।2.93.23।।

Meaning

Shloka 93.24Word-by-word available

तच्छ्रुत्वा भरतस्तेषां वचनं साधुसम्मतम् । सैन्यानुवाच सर्वांस्तानमित्रबलमर्दनः ।।2.93.24।।

Meaning

Shloka 93.25Word-by-word available

यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रतः । अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च ।।2.93.25।।

Meaning

Shloka 93.26Word-by-word available

एवमुक्तास्ततः सर्वे तत्र तस्थुः समन्ततः । भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ।।2.93.26।।

Meaning

Shloka 93.27Word-by-word available

व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि च धूममग्रतः । बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमं तदा ।।2.93.27।।

Meaning