← Ayodhyā Kāṇḍa

Sarga 102: Offering of Water

निवापदानम्

nivāpadānam — word-by-word gloss for all 49 shlokas.

Page 2 of 549 shlokas in this sarga (verified max-across-sources)
Shloka 102.11Word-by-word available

निष्प्रधानामनेकाग्रां नरेन्द्रेण विना कृताम् । निवृत्तवनवासोऽपि नायोध्यां गन्तुमुत्सहे ।।2.102.11।।

Meaning

Shloka 102.12Word-by-word available

समाप्तवनवासं मामयोध्यायां परन्तप । को नु शासिष्यति पुनस्ताते लोकान्तरं गते ।।2.102.12।।

Meaning

Shloka 102.13Word-by-word available

पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् । वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्यहम् ।।2.102.13।।

Meaning

Shloka 102.14Word-by-word available

एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः । उवाच शोकसन्तप्तः पूर्णचन्द्रनिभाननाम् ।।2.102.14।।

Meaning

Shloka 102.15Word-by-word available

सीते मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मण । भरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम् ।।2.102.15।।

Meaning

Shloka 102.16Word-by-word available

ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत । तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ।।2.102.16।।

Meaning

Shloka 102.17Word-by-word available

ततस्ते भ्रातरः सर्वे भृशमाश्वास्य राघवम् । अब्रुवन् जगतीभर्तुः क्रियतामुदकं पितुः ।।2.102.17।।

Meaning

Shloka 102.18Word-by-word available

सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम् । नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पतिम् ।।2.102.18।।

Meaning

Shloka 102.19Word-by-word available

सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् । उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः ।।2.102.19।।

Meaning

Shloka 102.20Word-by-word available

आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् । जलक्रियार्थं तातस्य गमिष्यामि महात्मनः ।।2.102.20।।

Meaning