Sarga 102: Offering of Water
निवापदानम्
nivāpadānam — word-by-word gloss for all 49 shlokas.
Jump to a shloka · 49 in this sarga
सीता पुरस्ताद्व्रजतुत्वमेनामभितो व्रज । अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा ।।2.102.21।।
Meaning
ततो नित्यानुगस्तेषां विदितात्मा महामतिः । मृदुर्दान्तश्च शान्तश्च रामे च दृढभक्तिमान् ।।2.102.22।।
Meaning
सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम् । अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ।।2.102.23।।
Meaning
ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः । नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् ।।2.102.24।।
Meaning
शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम् । सिषिचुस्तूदकं राज्ञे तत्रैतत्ते भवत्विति ।।2.102.25।।
Meaning
प्रगृह्य च महीपालो जलपूरितमञ्जलिम् । दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् ।।2.102.26।।
Meaning
एतत्ते राजशार्दूल विमलं तोयमक्षयम् । पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ।।2.102.27।।
Meaning
ततो मन्दाकिनीतीरात् प्रत्युत्तीर्य स राघवः । पितुश्चकार तेजस्वी निवापं भ्रातृभिः सह ।।2.102.28।।
Meaning
ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे । न्यस्य रामः सुदुःखार्तो रुदन् वचनमब्रवीत् ।।2.102.29।।
Meaning
इदं भुङ्क्ष्व महाराज प्रीतो यदशना वयम् । यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ।।2.102.30।।
Meaning