← Ayodhyā Kāṇḍa

Sarga 102: Offering of Water

निवापदानम्

nivāpadānam — word-by-word gloss for all 49 shlokas.

Page 4 of 549 shlokas in this sarga (verified max-across-sources)
Shloka 102.31Word-by-word available

ततस्तेनैव मार्गेण प्रत्युत्तीर्य नदीतटात् । आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ।।2.102.31।।

Meaning

Shloka 102.32Word-by-word available

ततः पर्णकुटीद्वारमासाद्य जगतीपतिः । परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ।।2.102.32।।

Meaning

Shloka 102.33Word-by-word available

तेषां तु रुदतां शब्दात् प्रतिश्रुत्कोऽभवद्गिरौ । भ्रातॄणां सह वैदेह्याः सिंहानामिव नर्दताम् ।।2.102.33।।

Meaning

Shloka 102.34Word-by-word available

महाबलानां रुदतां कुर्वतामुदकं पितुः । विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः ।।2.102.34।।

Meaning

Shloka 102.35Word-by-word available

अब्रुवंश्चापि रामेण भरतः सङ्गतो ध्रुवम् । तेषामेव महाञ्छब्दः शोचतां पितरं मृतम् ।।2.102.35।।

Meaning

Shloka 102.36Word-by-word available

अथ वासान् परित्यज्य तं सर्वेऽभिमुखाः स्वनम् । अप्येकमनसो जग्मुर्यथास्थानं प्रधाविताः ।।2.102.36।।

Meaning

Shloka 102.37Word-by-word available

हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतैः । सुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः ।।2.102.37।।

Meaning

Shloka 102.38Word-by-word available

अचिरप्रोषितं रामं चिरविप्रोषितं यथा । द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम् ।।2.102.38।।

Meaning

Shloka 102.39Word-by-word available

भ्रातॄणां त्वरितास्तत्र द्रष्टुकामाः समागमम् । ययुर्बहुविधैर्यानैः खुरनेमिस्वनाकुलैः ।।2.102.39।।

Meaning

Shloka 102.40Word-by-word available

सा भूमिर्बहुभिर्यानैः खुरनेमिसमाहता । मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ।।2.102.40।।

Meaning