← Ayodhyā Kāṇḍa

Sarga 102: Offering of Water

निवापदानम्

nivāpadānam — word-by-word gloss for all 49 shlokas.

Page 5 of 549 shlokas in this sarga (verified max-across-sources)
Shloka 102.41Word-by-word available

तेन वित्रासिता नागाः करेणुपरिवारिताः । आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः ।।2.102.41।।

Meaning

Shloka 102.42Word-by-word available

वराहवृकसङ्घाश्च महिषाः सर्प्पवानराः । व्याघ्रगोकर्णगवयाः वित्रेसुः पृषतैः सह ।।2.102.42।।

Meaning

Shloka 102.43Word-by-word available

रथाङ्गसाह्वा नत्यूहाः हंसाः कारण्डवाः प्लवाः । तथा पुंस्कोकिलाः क्रौञ्चा विसञ्ज्ञा भेजिरे दिशः ।।2.102.43।।

Meaning

Shloka 102.44Word-by-word available

तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् । मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ।।2.102.44।।

Meaning

Shloka 102.45Word-by-word available

ततस्तं पुरुषव्याघ्रं यशस्विनमरिन्दमम् । आसीनं स्थण्डिले रामं ददर्श सहसा जनः ।।2.102.45।।

Meaning

Shloka 102.46Word-by-word available

विगर्हमाणः कैकेयीं सहितो मन्थरामपि । अभिगम्य जनो रामं बाष्पपूर्णमुखोऽभवत् ।।2.102.46।।

Meaning

Shloka 102.47Word-by-word available

तान्नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदुःखितान् । पर्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः ।।2.102.47।।

Meaning

Shloka 102.48Word-by-word available

स तत्र कांश्चित् परिषस्वजे नरान् नराश्च केचित्तु तमभ्यवादयन् । चकार सर्वान् सवयस्यबान्धवान् यथार्हमासाद्य तदा नृपात्मजः ।।2.102.48।।

Meaning

Shloka 102.49Word-by-word available

स तत्र तेषां रुदतां महात्मनाम् भुवं च खं चानुनिनादयन् स्वनः । गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिमः प्रशुश्रुवे ।।2.102.49।।

Meaning