Sarga 70: Bharata Sets Out
भरतप्रस्थानम्
bharataprasthānam — word-by-word gloss for all 30 shlokas.
Jump to a shloka · 30 in this sarga
एवमुक्तास्तु ते दूताः भरतेन महात्मना । ऊचुः सम्प्रश्रयं वाक्यमिदं तं भरतं तदा ।।2.70.11।।
Meaning
कुशलास्ते नरव्याघ्र येषां कुशलमिच्छसि । श्रीश्च त्वां वृणुते पद्मा युज्यतां चापि ते रथः ।।2.70.12।।
Meaning
भरतश्चापि तान् दूतान् एवमुक्तोऽभ्यभाषत । आपृच्चेऽहं महाराजं दूताः सन्त्वरयन्ति माम् ।।2.70.13।।
Meaning
एवमुक्त्वा तु तान् दूतान् भरतः पार्थिवात्मजः । दूतैः सञ्चोदितः वाक्यं मातामहमुवाच ह ।।2.70.14।।
Meaning
राजन् पितुर्गमिष्यामि सकाशं दूतचोदितः । पुनरप्यहमेष्यामि यदा मे त्वं स्मरिष्यसि ।।2.70.15।।
Meaning
भरतेनैवमुक्तस्तु नृपो मातामहस्तदा । तमुवाच शुभं वाक्यं शिरस्याघ्राय राघवम् ।।2.70.16।।
Meaning
गच्छ तातानुजाने त्वां कैकेयीसुप्रजास्त्वया । मातरं कुशलं ब्रूयाः पितरं च परन्तप ।।2.70.17।।
Meaning
पुरोहितं च कुशलं ये चान्ये द्विजसत्तमाः । तौ च तात महेष्वासौ भ्रातरौ रामलक्ष्मणौ ।।2.70.18।।
Meaning
तस्मै हस्त्युत्तमांश्चित्रान् कम्बलानजिनानि च । अभिसत्कृत्य कैकेयो भरताय धनं ददौ ।।2.70.19।।
Meaning
रुक्मनिष्कसहस्रे द्वे षोडशाश्वशतानि च । सत्कृत्य कैकेयीपुत्रं केकयो धनमादिशत् ।।2.70.20।।
Meaning