Sarga 70: Bharata Sets Out
भरतप्रस्थानम्
bharataprasthānam — word-by-word gloss for all 30 shlokas.
Jump to a shloka · 30 in this sarga
तथाऽमात्यानभिप्रीतान् विश्वास्यांश्च गुणान्वितान् । ददावश्वपतिः क्षिप्रं भरतायानुयायिनः ।।2.70.21।।
Meaning
ऐरावतानैन्द्रशिरान् नागान्वै प्रियदर्शनान् । खरान् शीघ्रान् सुसम्युक्तान् मातुलोऽस्मै धनं ददौ ।।2.70.22।।
Meaning
अन्तःपुरेऽति संवृद्धान् व्याघ्रवीर्यबलान्वितान् । दंष्ट्रायुधान् महाकायान् शुनश्चोपायनं ददौ ।।2.70.23।।
Meaning
स दतं केकयेन्द्रेण धनं तन्नाभ्यनन्दत । भरतः कैकयीपुत्रः गमनत्वरया तदा ।।2.70.24।।
Meaning
बभूव ह्यस्य हृदये चिन्ता सुमहती तदा । त्वरया चापि दूतानां स्वप्नस्यापि च दर्शनात् ।।2.70.25।।
Meaning
स स्ववेश्माभ्यतिक्रम्य नरनागश्वसंवृतम् । प्रपेदे सुमहच्छ्रीमान् राजमार्गमनुत्तमम् ।।2.70.26।।
Meaning
अभ्यतीत्य ततोऽपश्यदन्तः पुरमुदारधीः । ततस्तद्भरतः श्रीमानाविवेशानिवारितः ।।2.70.27।।
Meaning
स मातामहमापृच्छ्य मातुलं च युधाजितम् । रथमारुह्य भरतः शत्रुघ्नसहितो ययौ ।।2.70.28।।
Meaning
रथान् मण्डलचक्रांश्च योजयित्वा परः शतम् । उष्ट्रगोअश्वखरैः भृत्या भरतं यान्तमन्वयुः ।।2.70.29।।
Meaning
बलेन गुप्तः भरतः महात्मा सहार्यकस्यात्मसमैरमात्यैः । आदाय शत्रुघ्नमपेतशत्रुः गृहात् ययौ सिद्धैवेन्द्रलोकात् ।।2.70.30।।
Meaning