Sarga 49: The Countryfolk's Outcry
जानपदाक्रोशः
jānapadākrośaḥ — word-by-word gloss for all 18 shlokas.
Jump to a shloka · 18 in this sarga
गत्वा तु सुचिरं कालं ततः शिवजलां नदीम् । गोमतीं गोयुतानूपामतरत्सागरङ्गमाम् ।।2.49.11।।
Meaning
गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः । मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम् ।।2.49.12।।
Meaning
स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा । स्फीतां राष्ट्रावृतां रामः वैदेहीमन्वदर्शयत् ।।2.49.13।।
Meaning
सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः । हंसमत्तस्वरः श्रीमानुवाच पुरुषर्षभः ।।2.49.14।।
Meaning
कदाऽहं पुनरागम्य सरय्वाः पुष्पिते वने । मृगयां पर्याटिष्यामि मात्रा पित्रा च सङ्गतः ।।2.49.15।।
Meaning
राजर्षीणां हि लोकेऽस्मिन् रत्यर्थं मृगया वने । काले कृतां तां मनुजैर्धन्विनामभिकाङ्क्षिताम् ।।2.49.16।।
Meaning
नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने । रतिर्ह्येषाऽतुला लोके राजर्षिगणसम्मता ।।2.49.17।।
Meaning
स तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा । तन्तमर्थमभिप्रेत्य ययौ वाक्यमुदीरयन् ।।2.49.18।।
Meaning