Sarga 16: Rāma Sets Out
रामप्रस्थानम्
rāmaprasthānam — word-by-word gloss for all 48 shlokas.
Jump to a shloka · 48 in this sarga
पतिसम्मानिता सीता भर्तारमसितेक्षणा। आद्वारमनुवव्राज मङ्गलान्यभिदध्युषी ।।2.16.21।।
Meaning
राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम्। कर्तुमर्हति ते राजा वासवस्येव लोककृत् ।।2.16.22।।
Meaning
दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम्। कुरङ्गशृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम् ।।2.16.23।।
Meaning
पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः। वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम् ।।2.16.24।।
Meaning
अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः। निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ।।2.16.25।।
Meaning
पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः। लक्ष्मणं द्वारि सोऽपश्यत्प्रह्वाञ्जलिपुटं स्थितम् ।।2.16.26।।
Meaning
अथ मध्यमकक्ष्यायां समागम्य सुहृज्जनैः। स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ।।2.16.27।।
Meaning
ततः पावकसङ्काशमारूरोह रथोत्तमम्। वैयाघ्रं पुरुषव्याघ्रो राजतं राजनन्दनः ।।2.16.28।।
Meaning
मेघनादमसम्बाधं मणिहेमविभूषितम्। मुष्णन्तमिव चक्षूंषि प्रभया हेमवर्चसम् ।।2.16.29।।
Meaning
करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः। हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् ।।2.16.30।।
Meaning