Sarga 16: Rāma Sets Out
रामप्रस्थानम्
rāmaprasthānam — word-by-word gloss for all 48 shlokas.
Jump to a shloka · 48 in this sarga
प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया। स पर्जन्य इवाकाशे स्वनवानभिनादयन् ।।2.16.31।।
Meaning
निकेतान्निर्ययौ श्रीमान्महेन्द्रादिव चन्द्रमाः। छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः ।।2.16.32।।
Meaning
जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः। ततो हलहलाशब्दस्तुमुलः समजायत ।।2.16.33।।
Meaning
तस्य निष्क्रममाणस्य जनौघस्य समन्ततः। ततो हयवरा मुख्याः नागाश्च गिरिसन्निभाः ।।2.16.34।।
Meaning
अनुजग्मुस्तदा रामं शतशोऽथ सहस्रशः। अग्रतश्चास्य सन्नद्धाश्चन्दनागरुरूषिताः ।।2.16.35।।
Meaning
खड्गचापधराः शूराः जग्मुराशंसवो जनाः। ततो वादित्रशब्दास्तु स्तुतिशब्दाश्च वन्दिनाम् ।।2.16.36।।
Meaning
सिंहनादाश्च शूराणां तथा शुश्रुविरे पथि। हर्म्यवातायनस्थाभिर्भूषिताभिः समन्ततः ।।2.16.37।।
Meaning
कीर्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिन्दमः। रामं सर्वानवद्याङ्ग्यो रामपिप्रीषया ततः ।।2.16.38।।
Meaning
वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे। नूनं नन्दति ते माता कौसल्या मातृनन्दन ।।2.16.39।।
Meaning
पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमवस्थितम्। सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनीं वराम् ।।2.16.40।।
Meaning