Sarga 16: Rāma Sets Out
रामप्रस्थानम्
rāmaprasthānam — word-by-word gloss for all 48 shlokas.
Jump to a shloka · 48 in this sarga
अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम्। तया सुचरितं देव्या पुरा नूनं महत्तपः ।।2.16.41।।
Meaning
रोहिणीव शशाङ्केन रामसम्योगमाप या। इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः ।।2.16.42।।
Meaning
शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः। आत्मसम्पूजनैः शृण्वन्ययौ रामो महापथम् ।।2.16.43।।
Meaning
स राघवस्तत्र कथाप्रपञ्चान् शुश्राव लोकस्य समागतस्य। आत्माधिकारा विविधाश्च वाचः प्रहृष्टरूपस्य पुरो जनस्य ।।2.16.44।।
Meaning
एष श्रियं गच्छति राघवोऽद्य राजप्रसादाद्विपुलां गमिष्यन्। एते वयं सर्वसमृद्धकामाः येषामयं नो भविता प्रशास्ता ।।2.16.45।।
Meaning
लाभो जनस्यास्य यदेष सर्वं प्रपत्स्यते राष्ट्रमिदं चिराय। न ह्यप्रियं किञ्चन जातु कश्चित् पश्येन्न दुःखं मनुजाधिपेऽस्मिन् ।।2.16.46।।
Meaning
स घोषवद्भिश्च हयैर्मतङ्गजैः पुरःसरैः स्वस्तिकसूतमागधैः। महीयमानः प्रवरैश्च वादकैरभिष्टुतो वैश्रवणो यथा ययौ ।।2.16.47।।
Meaning
करेणुमातङ्गरथाश्वसङ्कुलं महाजनौघप्रतिपूर्णचत्वरम्। प्रभूतरत्नं बहुपण्यसञ्चयं ददर्श रामो रुचिरं महापथम् ।।2.16.48।।
Meaning