Sarga 62: Kausalyā Appeased
कौसल्याप्रसादनम्
kausalyāprasādanam — word-by-word gloss for all 21 shlokas.
Jump to a shloka · 21 in this sarga
स मूर्ध्नि बद्ध्वा रुदती राज्ञः पद्ममिवाञ्जलिम् । सम्भ्रमादब्रवीत् त्रस्ता त्वरमाणाक्षरं वचः ।।2.62.11।।
Meaning
प्रसीद शिरसा याचे भूमौ निपतिताऽस्मि ते । याचिताऽस्मि हता देव हन्तव्याऽहं न हि त्वया ।।2.62.12।।
Meaning
नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता । उभयोर्लोकयोर्वीर पत्या या सम्प्रसाद्यते ।।2.62.13।।
Meaning
जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम् । पुत्रशोकार्तया तत्तु मया किमपि भाषितम् ।।2.62.14।।
Meaning
शोको नाशयते धैर्यं शोको नाशयते श्रुतम् । शोको नाशयते सर्वं नास्ति शोकसमः रिपुः ।।2.62.15।।
Meaning
शक्यमापतितः सोढुं प्रहरः रिपुहस्ततः । सोढुमापतितः शोकः सुसूक्ष्मोऽपि न शक्यते ।।2.62.16।।
Meaning
धर्मज्ञाः श्रुतिमन्तोऽपि छिन्नधर्मार्थसंशयाः । यतयो वीर मुह्यन्ति शोकसम्मूढचेतसः ।।2.62.17।।
Meaning
वनवासाय रामस्य पञ्चरात्रोऽद्य गण्यते । यः शोकहतहर्षायाः पञ्चवर्षोपमः मम ।।2.62.18।।
Meaning
तं हि चिन्तयमानायाः शोकोऽयं हृदि वर्धते । नदीनामिव वेगेन समुद्रसलिलं महत् ।।2.62.19।।
Meaning
एवं हि कथयन्त्यास्तु कौसल्यायाः शुभं वचः । मन्दरश्मिरभूत्सूर्यो रजनी चाभ्यवर्तत ।।2.62.20।।
Meaning