Sarga 26: Sītā Asked to Stay
सीताप्रत्यवस्थापनम्
sītāpratyavasthāpanam — word-by-word gloss for all 38 shlokas.
Jump to a shloka · 38 in this sarga
व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम्। चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् ।।2.26.11।।
Meaning
वाग्मिनो वन्दिनश्चापि प्रहृष्टास्त्वं नरर्षभ। स्तुवन्तो नात्र दृश्यन्ते मङ्गलैः सूतमागधाः ।।2.26.12।।
Meaning
न ते क्षौद्रं च दधि च ब्राह्मणा वेद पारगाः। मूर्ध्नि मूर्धाभिषिक्तस्य दधति स्म विधानतः ।।2.26.13।।
Meaning
न त्वां प्रकृतयः सर्वाः श्रेणीमुख्याश्च भूषिताः। अनुव्रजितुमिच्चन्ति पौरजापपदास्तथा ।।2.26.14।।
Meaning
चतुर्भिर्वेगसम्पन्नैर्हयैः काञ्चनभूषणैः। मुख्यः पुष्यरथो युक्तः किं न गच्छति तेऽग्रतः ।।2.26.15।।
Meaning
न हस्ती चाग्रतः श्रीमांस्तव लक्षणपूजितः। प्रयाणे लक्ष्यते वीर कृष्णमेघगिरिप्रभः ।।2.26.16।।
Meaning
न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन। भद्रासनं पुरस्कृत्य यातं वीरपुरस्कृतम् ।।2.26.17।।
Meaning
अभिषेको यदा सज्जः किमिदानीमिदं तव। अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते ।।2.26.18।।
Meaning
इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः। सिते तत्रभवांस्तातः प्रव्राजयति मां वनम् ।।2.26.19।।
Meaning
कुले महति सम्भूते धर्मज्ञे धर्मचारिणि। शृणु जानकि येनेदं क्रमेणाभ्यागतं मम ।।2.26.20।।
Meaning