Sarga 26: Sītā Asked to Stay
सीताप्रत्यवस्थापनम्
sītāpratyavasthāpanam — word-by-word gloss for all 38 shlokas.
Jump to a shloka · 38 in this sarga
राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन मे। कैकेय्यै मम मात्रे तु पुरा दत्तो महावरौ ।।2.26.21।।
Meaning
तयाऽद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते। प्रचोदितः ससमयो धर्मेण प्रतिनिर्जितः ।।2.26.22।।
Meaning
चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया। पित्रा मे भरतश्चापि यौवराज्ये नियोजितः ।।2.26.23।।
Meaning
सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम्। भरतस्य समीपे ते नाहं कथ्यः कदाचन ।।2.26.24।।
Meaning
ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम्। तस्मान्न ते गुणाः कथ्या भरतस्याग्रतो मम ।।2.26.25।।
Meaning
नापि त्वं तेन भर्तव्या विशेषेण कदाचन। अनुकूलतया शक्यं समीपे तस्य वर्तितुम् ।।2.26.26।।
Meaning
तस्मै दत्तं नृपतिना यौवराज्यं सनातनम्। स प्रसाद्यस्त्वया सिते नृपतिश्च विशेषतः ।।2.26.27।।
Meaning
अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन्। वनमद्यैव यास्यामि स्थिरा भव मनस्विनी ।।2.26.28।।
Meaning
याते च मयि कल्याणि वनं मुनिनिषेवितम्। व्रतोपवासपरया भवितव्यं त्वयानघे ।।2.26.29।।
Meaning
काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि। वन्दितव्यो दशरथः पिता मम नरेश्वरः ।।2.26.30।।
Meaning