Sarga 26: Sītā Asked to Stay
सीताप्रत्यवस्थापनम्
sītāpratyavasthāpanam — word-by-word gloss for all 38 shlokas.
Jump to a shloka · 38 in this sarga
माता च मम कौसल्या वृद्धा सन्तापकर्शिता। धर्ममेवाग्रतः कृत्वा त्वत्तः सम्मानमर्हति ।।2.26.31।।
Meaning
वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः। स्नेहप्रणयसम्भोगैः समा हि मम मातरः ।।2.26.32।।
Meaning
भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः। त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम ।।2.26.33।।
Meaning
विप्रियं न च कर्तव्यं भरतस्य कदाचन। स हि राजा प्रभुश्चैव देशस्य च कुलस्य च ।।2.26.34।।
Meaning
आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः। राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये ।।2.26.35।।
Meaning
औरसानपि पुत्रान्हि त्यजन्त्यहितकारिणः। समर्थान्सम्प्रगृह्णन्ति परानपि नराधिपाः ।।2.26.36।।
Meaning
सा त्वं वसेह कल्याणि राज्ञः समनुवर्तिनी। भरतस्य रता धर्मे सत्यव्रतपरायणा ।।2.26.37।।
Meaning
अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यमिहैव भामिनि। यथा व्यलीकं कुरुषे न कस्यचित्तथा त्वया कार्यमिदं वचो मम ।।2.26.38।।
Meaning