Sarga 103: Meeting the Mothers
मातृदर्शनम्
mātṛdarśanam — word-by-word gloss for all 32 shlokas.
Jump to a shloka · 32 in this sarga
यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रियः । वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ।।2.103.21।।
Meaning
सीतापि चरणांस्तासामुपसङ्गृह्य दुःखिता । श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता ।।2.103.22।।
Meaning
तां परिष्वज्य दुःखार्तां माता दुहितरं यथा । वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ।।2.103.23।।
Meaning
विदेहराजस्य सुता स्नुषा दशरथस्य च । रामपत्नी कथं दुःखं सम्प्राप्ता निर्जने वने ।।2.103.24।।
Meaning
पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् । काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः ।।2.103.25।।
Meaning
मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयं भृशं मनसि वैदेहि व्यसनारणिसम्भवः ।।2.103.26।।
Meaning
ब्रुवन्त्यामेवमार्तायां जनन्यां भरताग्रजः । पादावासाद्य जग्राह वसिष्ठस्य च राघवः ।।2.103.27।।
Meaning
पुरोहितस्याग्निसमस्य वै तदा बृहस्पतेरिन्द्र इवामराधिपः । प्रगृह्य पादौ सुसमृद्धतेजसः सहैव तेनोपविवेश राघवः ।।2.103.28।।
Meaning
ततो जघन्यं सहितैः समन्त्रिभिः पुरप्रधानैश्च सहैव सैनिकैः । जनेन धर्मज्ञतमेन धर्मवान् उपोपविष्टो भरतस्तदाग्रजम् ।।2.103.29।।
Meaning
उपोपविष्टस्तु तथा स वीर्यवान् तपस्विवेषेण समीक्ष्य राघवम् । श्रिया ज्वलन्तं भरतः कृताञ्जलिः यथा महेन्द्रः प्रयतः प्रजापतिम् ।।2.103.30।।
Meaning