Sarga 18: The Exile Decreed
वनवासनिदेशः
vanavāsanideśaḥ — word-by-word gloss for all 41 shlokas.
Jump to a shloka · 41 in this sarga
तमार्जवसमायुक्तमनार्या सत्यवादिनम्। उवाच रामं कैकेयी वचनं भृशदारुणम् ।।2.18.31।।
Meaning
पुरा दैवासुरे युद्धे पित्रा ते मम राघव। रक्षितेन वरौ दत्तौ सशल्येन महारणे ।।2.18.32।।
Meaning
तत्र मे याचितो राजा भरतस्याभिषेचनम्। गमनं दण्डकारण्ये तव चाद्यैव राघव ।।2.18.33।।
Meaning
यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि। आत्मानं च नरश्रेष्ठ मम वाक्यमिदं शृणु ।।2.18.34।।
Meaning
सन्निदेशे पितुस्तिष्ठ यथानेन प्रतिश्रुतम्। त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च ।।2.18.35।।
Meaning
भरतस्त्वभिषिच्येत यदेतदभिषेचनम्। त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव ।।2.18.36।।
Meaning
सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः। अभिषेकमिमं त्यक्त्वा जटाजिनधरो वस ।।2.18.37।।
Meaning
भरतः कोसलपुरे प्रशास्तु वसुधामिमाम्। नानारत्नसमाकीर्णां सवाजिरथकुञ्जराम् ।।2.18.38।।
Meaning
एतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्लुतः। शोकसङ्क्लिष्टवदनो न शक्नोति निरीक्षितुम् ।।2.18.39।।
Meaning
एतत्कुरु नरेन्द्रस्य वचनं रघुनन्दन। सत्येन महता राम तारयस्व नरेश्वरम् ।।2.18.40।।
Meaning