Sarga 54: Arrival at Bharadvāja's Hermitage
भरद्वाजाश्रमाभिगमनम्
bharadvājāśramābhigamanam — word-by-word gloss for all 43 shlokas.
Jump to a shloka · 43 in this sarga
चिरस्य खलु काकुत्स्थ पश्यामि त्वामिहागतम् । श्रुतं तव मया चेदं विवासनमकारणम् ।।2.54.21।।
Meaning
अवकाशो विविक्तोऽयं महानद्योः समागमे । पुण्यश्च रमणीयश्च वसत्विह भगान् सुखम् ।।2.54.22।।
Meaning
एवमुक्तस्तु वचनं भरद्वाजेन राघवः । प्रत्युवाच शुभं वाक्यं रामः सर्वहितेरतः ।।2.54.23।।
Meaning
भगवन्नितासन्नः पौरजानपदो जनः । सुदर्शमिह मां प्रेक्ष्य मन्येऽहमिममाश्रमम् ।।2.54.24।।
Meaning
आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः । अनेन कारणेनाहमिह वासं न रोचये ।।2.54.25।।
Meaning
एकान्ते पश्य भगवन्नाश्रमस्थानमुत्तमम् । रमेत यत्र वैदेही सुखार्हा जनकात्मजा ।।2.54.26।।
Meaning
एतच्छ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः । राघवस्य ततः वाक्यमर्थग्राहकमब्रवीत् ।।2.54.27।।
Meaning
दशक्रोशैतस्तात गिरिर्यस्मिन्निवत्स्यसि । महर्षिसेवितः पुण्यः सर्वतः सुखदर्शनः ।।2.54.28।।
Meaning
गोलाङ्गूलानुचरितः वानरर्क्षनिषेवितः । चित्रकूटैति ख्यातः गन्धमादनसन्निभः ।।2.54.29।।
Meaning
यावता चित्रकूटस्य नरः शृङ्गाण्यवेक्षते । कल्याणानि समाधत्ते न पापे कुरुते मनः ।।2.54.30।।
Meaning