Sarga 54: Arrival at Bharadvāja's Hermitage
भरद्वाजाश्रमाभिगमनम्
bharadvājāśramābhigamanam — word-by-word gloss for all 43 shlokas.
Jump to a shloka · 43 in this sarga
ऋषयस्तत्र बहवः विहृत्य शरदां शतम् । तपसा दिवमारूढाः कपालशिरसा सह ।।2.54.31।।
Meaning
प्रविविक्तमहं मन्ये तं वासं भवतः सुखम् । इह वा वनवासाय वस राम मया सह ।।2.54.32।।
Meaning
स रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम् । सभार्यं सह च भ्रात्रा प्रतिजग्राह धर्मवित् ।।2.54.33।।
Meaning
तस्य प्रयागे रामस्य तं महर्षिमुपेयुषः । प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ।।2.54.34।।
Meaning
सीतातृतीयः काकुत्स्थः परिश्रान्तः सुखोचितः । भरद्वाजाश्रमे रम्ये तां रात्रिमवसत्सुखम् ।।2.54.35।।
Meaning
प्रभातायां रजन्यां तु भरद्वाजमुपागमत् । उवाच नरशार्दूलो मुनिं ज्वलिततेजसम् ।।2.54.36।।
Meaning
शर्वरीं भवनन्नद्य सत्यशील तवाश्रमे । उषिताः स्मेह वसतिमनुजानातु नो भवान् ।।2.54.37।।
Meaning
रात्र्यां तु तस्यां व्युष्टायां भरद्वाजोऽब्रवीदिदम् । मधुमूलफलोपेतं चित्रकूटं व्रजेति ह ।।2.54.38।।
Meaning
वासमौपयिकं मन्ये तव राम महाबल । नानानगगणोपेतः किन्नरोरगसेवितः ।।2.54.39।।
Meaning
मयूरनादाभिरुतो गजराजनिषेवितः । गम्यतां भवता शैलश्चित्रकूटः स विश्रुतः ।।2.54.40।।
Meaning